"गीता" के अवतरणसभमे अन्तर

ट्यागसभ: दूरभाष सम्पादन दूरभाष जाल सम्पादन उन्नत मोबाइल संपादन
Fixed the unclosed bold tag errors
 
पङ्क्त्ति १२:
:''एतद्बुध्वा बुद्धिमान् स्यात्कृतकृत्यश्च भारत ॥''
[[Image:Krishna and Arjun on the chariot, Mahabharata, 18th-19th century, India.jpg|thumb|left|200px|अष्टादशशतमानस्य चित्रणं कृष्णार्जुनयोः]]
अत्र शंकरभगवत्पादाः – '''इत्येतद् गुह्यतमं गोप्यतममत्यन्तरहस्यमित्येतत् । किं तच्छास्त्रम् ।'''
तच्छास्त्रम् । यद्यपि गीताख्यं समस्तं शास्त्रमुच्यते तथाप्यमेवाध्याय इह शास्त्रमित्युच्यते स्तुत्यर्थं प्रकरणात् । सर्वो हि गीताशास्रार्थोयऽस्मिन्नाध्याये समासेनोक्तो न केवलं सर्वश्च वेदार्थ इह परिसमाप्तो ''यस्तं वेद स वेदवित्'' ''वेदैश्च सर्वैरहमेव वेद्यः'' इति चोक्तम् । इदमुक्तं मया हेऽनघापाप । एतच्छास्रं यथादर्शितार्थं बुदध्वा बुद्धिमान् स्यात् भवेन्नान्यथा । कृतकृत्यश्च भारत कृतं कृत्यं कर्तव्यं येन स कृतकृत्यो विशिष्टजन्मप्रसूतेन ब्राह्मणेन यत्कर्तव्यं तत्सर्वं भगवत्तत्वविदिते कृतं भवेदित्यर्थः । न चान्यथा कर्त्तव्यं परिसमाप्यते कस्यचिदित्यभिप्रायः । ''सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते'' । इति चोक्तम् ।
पङ्क्त्ति ८८:
तदेवं प्रमाणितं वेदितव्यं यदभगवद्गीता ''कर्मैव पूजा'' इत्युपदिशति । सर्वेषां मानवानां स्वभानानुकूलं कर्म एव भगवदाराधनरुपेण ग्राह्यमिति हि सिद्धान्तः । जीवननिर्वाहायावश्यकं कर्म सहजं स्वभावनियतं च – ''नहि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् '' । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ।
:'''कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।'''
:'''इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥'''
:'''यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।'''
:'''कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥'''
:'''नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।'''
:'''शरीरयात्रापि च ते न प्रसिद्धयेदकर्मणः ॥'''
:'''यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।'''
:'''तदर्थ कर्म कौन्तेय मुक्तसङ्गः समाचर ॥'''
 
''ततः कर्मजन्यशुद्धयभावे बहिर्मुखः – इति यस्मातक्षणमपि कालं जातु कदाचित्कश्चिदप्यजितेन्द्रियोऽकर्मकृत्सन्न तिष्ठति, अपितु लौकिकवैदिक कर्मानुष्ठानव्यग्र एव तिष्ठति । तस्माद् शुद्धचित्तस्य संन्यासो न सम्भवतीत्यर्थः कस्मात् पुनरविद्वान्कर्माण्यकुर्वाणो न तिष्ठति । हि यस्मात् सर्वः प्राणी चित्तशुद्धिरहितोऽवशोऽस्वतन्त्रएव सन् प्रकृतितो जातैरभिव्यक्तै कार्याकारेण सत्त्वरजस्तमोभिःस्वभावप्रभवैर्वा रागद्वेषादिभिर्गुणैः कर्म लैकिकं वैदिकं वा कार्यते । अतः कर्माण्यकुर्वाणो न कश्चिदपि तिष्ठतीत्यर्थः । यतः स्वभाविका गुणाश्चालकाः अतः परवशतया सर्वदा कर्माणि कुर्वतोऽशुद्धबुद्धेः सर्वकर्मसंन्यासो न संभवतीति न संन्यासनिबन्धना ज्ञाननिष्ठा संभवतीत्यर्थः ॥ यथाकथंचिदौत्सुक्यमात्रेण कृतसंन्यासस्त्वशुद्धचित्तस्तत्फलभाङ् न भवति । यतः- यो हि विमूढात्मा रागद्वेषादि दूषितान्तः करण औत्सुक्यमात्रेण कर्मेन्द्रयाणि वाक्पाण्यादीनि संयम्य निगृह्य, बहिरिन्द्रियैः कर्माण्यकुर्वन्निति यावत् । मनसा रागादि प्रेरितेन्द्रियार्थाञ्छब्दादीन नत्वात्मतत्त्वं स्मरन्नास्ते कृतसंन्यासोऽहमित्याभिमानेन कर्मशून्यस्तिष्ठति स मिथ्याचारः सत्त्वशुद्धयभावेन फलायोग्यत्वात्पापाचार उच्चते "त्वं पदार्थविवेकाय संन्यासः सर्वकर्मणाम् । श्रुत्येह विहितो यस्मात्तत्यागी पतितो भवेत् । इत्यादि धर्म शास्त्रेणा । अत उपपन्नं न च संन्यसनादेवांशुद्धान्तः करणः सिद्धिं समधिगच्छतीति । औत्सुक्यमात्रेण सर्वकर्माण्यसंन्यस्य चित्तशुद्धये निष्कामकर्माण्येव यथाशास्त्रंकुर्यात् । यस्मात् तु शब्दोऽशुद्धान्तः करण संन्यासिव्यतिरेकार्थः । इन्द्रियाणि ज्ञानेन्द्रियाणि श्रोत्रादीनि मनसा सह नियम्य पापहेतु शब्दादिविषयासक्तेर्निवर्त्य, मनसा विवेकयुक्तेन नियम्येति वा, कर्मेन्द्रियैर्वाक्पाण्यादिभि कर्मयोगं शुद्धिहेतुतया विहितं कर्मारभते करोत्यसक्तः फलाभिलाषशून्यः सन यो विवेकी स इतरस्मानमिथ्याचाराद्विशिष्यते । परिश्रमसाम्येऽपि फलातिशयभाक्त्वेन श्रेष्ठो भवति । हे अर्जुन, आश्चर्यमिदं पश्य यदेकं कर्मेन्द्रियाणि निगृयज्ञानेन्द्रियाणि व्यापारयन् परमपुरुषार्थ् भगभवतीति यस्मादेवं तस्मान्मनसा ज्ञानेन्द्रियाणि निगृह्य कर्मेन्द्रियै-त्वं प्रागननुतिष्ठत शुद्धिहेतुकर्मा नियतं विध्युददेशे फलसम्बन्धशुन्यतया नियतनिमित्तेन कर्म श्रौतं स्मार्तं च नित्यमिति प्रसिद्धं कुरु कुर्विति मध्यमपुरुषप्रयोगेणैव त्वमिति लब्धे त्वमिति पदमर्थान्तरे संक्रमितम् । कस्मादशुद्धान्तः करणेन कर्मैव कर्त्तव्यम् हि यस्मात् अकर्मणोऽकरणात्कर्मैअ ज्यायः प्रशस्यतरम् । न केवलं कर्माभावे तवानतः करणशुद्धिरेव नद्धयेत किन्तु अकर्मणो युद्धादिकर्मर्हितस्य ते तव शरीरयात्रा शरीरस्थितिरपि न प्रकर्षेण क्षात्रवृत्तिकृतत्व लक्षणेन सिध्येत् । तथा च प्रागुक्तम् । अपि चेत्यन्तः करण शुद्धि समुच्चयार्थः “ कर्मणा बध्यते जन्तुः” इति स्मृतेः । सर्वं कर्मबान्धात्मकत्वान्मुमुक्षुणा न कर्तव्यमिति मत्वा तस्योत्तरमाह-यज्ञः परमेश्वरः "यज्ञो वै विष्णुः” इति श्रुतेः । तदाराधनार्थं यत्कर्म क्रियते तद्यज्ञार्थं तस्मात्कर्मणोऽन्यत्र कर्मणि प्रवृत्तोऽयं लोकःअ कर्माधिकारी कर्मबन्धनः कर्मणाबध्यते नत्वीश्वराराधनार्थेन । अतस्तदर्थं यज्ञार्थं कर्म हे कौन्तेय, त्वं कर्मण्यधिकृतो मुक्तसंगः सन्समाचर सम्यक् श्रद्धादिपुरः सरमाचर ॥''
प्राप्ति स्थल "https://mai.wikipedia.org/wiki/गीता"